वाचस्पत्यम्
मात्सर्य्य || न० मत्सरस्य भावः ष्यञ् । परगुणद्वेषे “मात्सर्य्य० मुत्सार्य्य विचार्य्य धूर्य्याः” सा० द० ।
शब्दकल्पद्रुमः
मात्सर्य्यं || क्ली (मत्सर + ष्यञ् ।)
मत्सरस्य भावः । परशुभद्वेषः । यथा, —
“मागाश्चिरायैकतरः प्रमादं वसन्नसम्बाधशिवेऽपि देशे । मात्सर्य्यरागोपहतात्मनां हि स्खलन्ति साधुष्वपि मानसानि ॥ इति भारवौ ३ अध्यायः ॥