वाचस्पत्यम्
माथुर || त्रि० मथुरायां भवो मथुरायाः आगतो वा अण् । १ मथुरानगरीभवे, २ तत आगते च ।
शब्दकल्पद्रुमः
माथुरः || पुं, (मथुरा + अण् ।)
मथुराया आगतः । इति मुग्धबोधव्याकरणम् ॥ (तत्र जात इत्यण् वा । मथुराजातः । यथा, कथा- सरित्सागरे । ३६ । ७३ । “ततः स दृष्टबहुलक्लेशस्तां पुरुषोऽब्रवीत् । मुग्धे ! पवनसेनाख्यो बणिक्पुत्त्रोऽस्मि माथुरः ॥” अन्येन कृता माथुरेण प्रोक्ता । “तेन प्रोक्तम् ।” ४ । ३ । १०४ । इति अण् ङीप् । माथुरी- वृत्तिः । इति व्याकरणम् ॥)