वाचस्पत्यम्
मादन || न० मादयति मद—णिच्—ल्यु । १ लवङ्गे शब्दच० । २ कामदेवे ३ मदनवृक्षे च पु० । ४ विजयायां राजनि० ५ माकन्दाञ्च स्त्री भावप्र० गौरा० ङीष् । ६ हर्षकारके त्रि० ।
शब्दकल्पद्रुमः
मादनं || क्ली (मादयति विरहिणः । इति मद + णिच् + ल्युः ।)
लवङ्गम् । इति शब्दचन्द्रिका ॥ (मादयतीति मद + णिच् + ल्युः ।)
हर्षकारयि- तरि, त्रि ॥)
शब्दकल्पद्रुमः
मादनः || पुं, (मादयति चित्तविकारमुत्पादयतीति । मद + णिच् + ल्युः ।)
कामदेवः । मदनवृक्षः । धुस्तूरः । इति केचित् ॥