शब्दकल्पद्रुमः
मादृशः || त्रि (अहमिव दृश्यत इति । दृश + “त्यदादिषु दृशोऽनालोचने कञ्च ।” ३ । २ । ६० । इति कञ् ।)
मत्सदृशः । इति व्याकरणम् ॥ (यथा, महाभारते । ७ । १०८ । ८९ । “तस्य त्वं पदवीं गच्छ गच्छेयुस्त्वादृशा यथा । तादृशस्येदृशे काले मादृशैरभिचोदितः ॥ कथं नु भार्य्या पार्थानां तव कृष्ण ! सखी विभो ! । धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी ॥”)