संस्कृत-शब्दकोशः

मादृश् माद्रीपति

माद्री

वाचस्पत्यम्

माद्री ||‍ स्त्री मद्रे भवा अण् । १ पाण्डुराजस्य द्वितीयपत्न्याम् २ अतिविषायाञ्च राजनि० ।


शब्दकल्पद्रुमः

माद्री || स्त्री (मद्रे जाता । मद्र + अण् ङीप् । भर्गादित्वात् न प्रत्ययलुक् ।)
पाण्डुराजपत्नी । सा मृगीभूतस्य मुनेः शापात् मैथुनरहितस्य स्वामिन आज्ञया अश्विनीकुमाराभ्यां नकुल- सहदेवौ जनयामास । इति महाभारतश्रीभाग- वतमतम् ॥ (यथा, महाभारते । १ । ६७ । १५९ । “कुन्ती माद्री च जज्ञाते मतिश्च सुबलात्मजा ।”)
अतिविषा । इति राजनिर्घण्टः ॥



Correction: