शब्दकल्पद्रुमः
माध्यमं || त्रि (मध्ये भवं । मध्य + “अन्तःपूर्व्वपदाट्- ठञ् ।” ४ । ३ । ६० । इत्यस्य काशिकासूत्र- वृत्तौ “मण्मीयौ च प्रत्ययौ वक्तव्यौ ।” इति मण् ।)
मध्ये भवम् । यथा, —
“मध्यमं माध्यमं मध्यमीयं माध्यन्दिनञ्च तत् ।” इति हेमचन्द्रः । ६ । ९६ ॥