शब्दकल्पद्रुमः
माध्वी || स्त्री (मधुनो विकारः । मधु + अण् । ङीप् । “ऋत्व्यवास्त्व्यवास्त्वमाध्वीति ।” ६ । ४ । १७५ । अणि स्त्रियां यणादेशो निपा- त्यते ।)
मद्यम् । इति त्रिकाण्डशेषः ॥ मध्वादि- कृता सुरा । इति राजनिर्घण्टः ॥ (यथा, मनौ । ११ । ९५ । “गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ।” मधु मधुररसोऽस्त्यस्य कण्टकावच्छेदे अण् ।)
मधुरकण्टकमत्स्यः । इति शब्दरत्नावली ॥ (मधुमति, त्रि । यथा, ऋग्वेदे । ७ । ७१ । २ । “दिवानक्तं माध्वी त्रासीथां नः ॥” हे माध्वी ! मधुमन्तौ ॥ इति तद्भाष्ये सायनः ॥ नदीविशेषः । यथा, मात्स्ये । १२० । ७१ । “तेभ्यः शान्ता च माध्वी च द्वे नद्यौ सम्प्रसू- याताम् ।”)