वाचस्पत्यम्
माध्वीक || स्त्री मधुना मधूकपुष्पेण निर्वृत्तम् ईकक् । १ मधूक- पुष्पजाते मद्ये अमरः । मधु एव अण् स्वार्थे ईकक् । २ द्रा फले “साध्वी माध्वीक! चिन्ता विजहत्विति जयदेवः ।
शब्दकल्पद्रुमः
माध्वीकं || क्ली (माध्वी + स्वार्थे कन् ।)
मधूक- पुष्पकृतमद्यम् । तत्पर्य्यायः । मध्वासवः २ माधवकः ३ मधु ४ । इत्यमरः । २ । १० । ४१ ॥ मधुमाध्वीकमित्येकं नामेति केचित् ॥ पूर्व्वौ द्बौ पुष्पमद्ये । (यथा, महाभारते । ३ । २७७ । ३९ । “कथं हि पीत्वा माध्वीकं पीत्वा च मधुमाध- वीम् । लोभं सौवीरके कुर्य्यान्नारी काचिदिति स्मरे ॥”)
परौ द्वौ द्राक्षाविकारे । इति भरतः ॥ माद्दींक- मिति वा पाठः । इति रमानाथः । माध्वीक- स्थाने माध्वकमिति भानुदीक्षितः ॥ (मधु । यथा, नैषधे । १९ । ३३ । “धयतु नलिने माध्वीकं वा न वाऽभिनवागतः । कुमुदमकरन्दौघैः कुक्षिम्भरिर्भ्रमरोत्करः । इह तु लिहते रात्रीतर्षं रथाङ्गविहङ्गमा मधु निजबधूवक्त्राम्भोजेऽधुनाऽधरनामकम् ॥” “माध्वीकं मकरन्दम् । इति तट्टीकायां नारा- यणः ॥)
तत्पर्य्यायो यथा, —
“मधुमाक्षीकमाध्वीकक्षौद्रसारध्यमीरितम् । मक्षिकावरटीभृङ्गवातपुष्परसोद्भवम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)