वाचस्पत्यम्
मानव || पु० मनोरपत्यम् अण् । १ मनुष्ये अमरः । स्त्रियां जातौ ङीष् । सा च २ स्वायम्भुवकन्यायाम् भारतम् । ३ शासनदेवताभेदे हेमञ्च० । २ बाले पु० शब्द र० ।
शब्दकल्पद्रुमः
मानवः || पुं, (मनोरपत्यम् मनोर्गोत्रापत्यं वा पुमान् । मनु + अण् ।)
मनोरपत्यम् । मनुष्यः । इत्यमरः । २ । ६ । १ ॥ (यथा, महाभारते । १ । ७५ । १२ — १३ । “मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत् । ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः ॥”)
बालः । इति शब्दरत्नावली ॥ (मनुना प्रोक्तम् । मनु + अण् ॥ उपपुराणविशेषः । यथा, देवी- भागवते । १ । ३ । १३ — १४ । “सनत्कुमारं प्रथमं नारसिंहं ततः परम् । नारदीयं शिवञ्चैव दौर्वाससमनूत्तमम् । कापिलं मानवञ्चैव तथा चौशनसं स्मृतम् ॥”)