शब्दकल्पद्रुमः
मानसतीर्थं || क्ली (मानसं तीर्थमिव । रागाद्य- मावात् तथात्वम् ।)
रागादिरहितं मनः । यथा, सूत उवाच । “तीर्थानि कथितान्येवं भौमानि मुनिसत्तम ! । मानसानीह तीर्थानि फलदानि विशेषतः ॥ मनो निर्म्मलतीर्थं हि रागादिभिरनाविलम् ॥” इति नारसिंहपुराणे ४६ अध्यायः ॥