संस्कृत-शब्दकोशः

मानिका मानिन्

मानिनी

वाचस्पत्यम्

मानिनी ||‍ स्त्री मान—इनि ङीप् । १ फलीवृक्षे मेदि० २ मनि- वत्यां स्त्रियां च । ३ मानयुते त्रि० ४ सिंहे पु० राजनि० ।


शब्दकल्पद्रुमः

मानिनी || स्त्री फली वृक्षः । इति मेदिनी । ने, १०९ ॥ (मानं अस्त्यस्याः । मान + इनिः । ङीप् । मानवती च ॥ (यथा, गीतगोविन्दे । ९ । २ । “हरिरभिसरति वहति मृदुपवने । किमपरमधिकसुखं सखि ! भवने ॥ माधवे माकुरु मानिनि ! मानमये ॥” अभिमानवती च । यथा, कुमारे । ५ । ५३ । “इयं महेन्द्रप्रभृतीनधिश्रिय- श्चतुर्दिगीशानवमत्य मानिनी । अरूपहार्य्यं मदनस्य निग्रहात् पिनाकपाणिं पतिमाप्तुमिच्छति ॥” “मानिनीन्द्राणीप्रभृतीरतिशय्य वर्त्तितव्यमित्यभि- मानवती ।” इति तट्टीकायां मल्लिनाथः ॥)
राज्यवर्द्धनस्य पत्नी । यथा, मार्कण्डेये । १०९ । १० । “विदूरथस्य तनया दाक्षिणात्यस्य भूभृतः । तस्य पत्नी बभूवाथ मानिनी नाम मानिनी ॥”)



Correction: