मानिनी
मानुष
मानिन्
शब्दकल्पद्रुमः
मानी || [न्] त्रि, (मानोऽस्यास्तीति । मान + इनिः ।)
मानविशिष्टः । इति मेदिनी । ने, १०९ ॥ (यथा, मार्कण्डेये । १२३ । २२ । “ततस्ते भूभृतः सर्वे बहुशस्तेन मानिना । निराकृताः सुनिर्विन्नाः प्रोचुरन्योन्यमाकुलाः ॥”)
सिंहः । इति राजनिर्घण्टः ॥