संस्कृत-शब्दकोशः

मानुषिकं मानुष्य

मानुषी

शब्दकल्पद्रुमः

मानुषी || स्त्री (मानुषस्य स्त्री । मानुष + जातित्वात् ङीष् ।)
मनुष्यस्त्रीजातिः । यथा, — मनुष्यी मानुषी नारी मानवी मानुषस्त्रियाम् । इति शब्दरत्नावली ॥ (मनुष्य + अण् + ङीष् ।)
चिकित्साविशेषः । यथा, —
“आसुरी मानुषी दैवी चिकित्सा सा त्रिधा मता ।” इति शब्दचन्द्रिका ॥



Correction: