वाचस्पत्यम्
मानुष्य || न० मादुषस्य भावः यत् । मनुष्यत्वे ।
शब्दकल्पद्रुमः
मानुष्यं || क्ली (मनुष्यस्य भावः । मनुष्यस्येदमिति वा । मनुष्य + अण् ।)
मनुष्यस्य भावः । मनु- ष्यत्वम् । (यथा, भागवते । ४ । २३ । २८ । “स वञ्चितो वतात्मध्रुक् कृच्छ्रेण महता भुवि । लब्ध्वापवर्ग्यं मानुष्यं विषयेषु विषज्जते ॥”)
मनुष्यशरीरम् । यथा, —
“मानुष्ये कदलीस्तम्भे निःसारे सारमार्गणम् । यः करोति स संमूढो जलवुद्वुदसन्निभे ॥” इति शुद्धितत्त्वे याज्ञवल्क्यवचनम् ॥ (मनुष्यसम्बन्धिनि, त्रि । यथा, महाभारते । १ । १५३ । ११ । “गच्छ जानीहि के न्वेते शेरते वनमाश्रिताः । मानुष्यो बलवान् गन्धो घ्राणं तर्पयतीव मे ॥”)