शब्दकल्पद्रुमः
मान्यस्थानं || क्ली (मान्यस्य स्थानं ।)
पूज्यत्व- कारणम् । यथा, —
“वित्तं बन्धुर्वयः कर्म्म विद्या भवति पञ्चमी । एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥ पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च । यत्र स्युः सोऽत्र मानार्हः शूत्रोऽपि दशमीं गतः ॥” इति मानवे २ अध्यायः । कौर्म्म ११ अध्याये- ऽप्येवम् ॥