संस्कृत-शब्दकोशः

मामक माय

मामकीन

शब्दकल्पद्रुमः

मामकीनं || त्रि (ममेदम् । अस्मद् + “तवकमम- कावेकवचने ।” ४ । ३ । ३ । इति खञ् । ममका- देशश्च ।)
मदीयम् । ममेदमित्यर्थे णीने क्तेर्लुकि अस्मद एकत्वान्मदादेशे अस्य च ममकादेशे वृद्धौ मामकीनम् । इति दुर्गादासः ॥ (यथा, कथासरित्सारे । ३२ । १४५ । “एतच्च मे कियत् किं हि न बुद्ध्या साधयाम्य- हम् । प्रज्ञानं मामकीनं च श्रूयतां वर्णयामि ते ॥”)



Correction: