शब्दकल्पद्रुमः
मायादः || पुं, (मायया छलेन धृत्वेत्यर्थः अत्ति भक्षयतीति । अद + अच् ।) कुम्भीरः । इति त्रिकाण्डशेषः ॥