संस्कृत-शब्दकोशः

मायाफल मायावत

मायामोह

शब्दकल्पद्रुमः

मायामोहः || पुं, (मायया मोहयति असुरानिति । मुह + णिच् + अच् । माया च मोहश्च तौ यस्येति वा ।)
विष्णुदेहनिर्गतासुरमोहक- पुरुषविशेषः । यथा, — श्रीपराशर उवाच । “इत्युक्तो भगवांस्तेभ्यो मायामोहं शरीरतः । तमुत्पाद्य ददौ विष्णुः प्राह चेदं सुरोत्तमान् ॥” श्रीभगवानुवात्त । “मायामोहोऽयमखिलान् दैत्यांस्तान् मोहयिष्यति । ततो वध्या भविष्यन्ति वेदमार्गबहिष्कृताः ॥ स्थितौ स्थितस्य मे वध्या यावन्तः परिपन्थिनः । ब्रह्मणो येऽधिकारस्य देवदैत्यादिकाः सुराः ॥ तद्गच्छत न भीः कार्य्या मायामोहोऽयमग्रतः । गच्छत्वद्योपकाराय भवतां भविता सुराः ॥” श्रीपराशर उवाच । “इत्युक्त्वा प्रणिपत्यैनं ययुर्देवा यथागतम् । मायामोहोऽपि तैः सार्द्धं ययौ यत्र महा- सुराः ॥” इति विष्णुपुराणे ३ अंशे १७ अध्यायः ॥



Correction: