संस्कृत-शब्दकोशः

मायावत मायावत्

मायावती

शब्दकल्पद्रुमः

मायावती || स्त्री (मायास्यास्तीति । माया + मतुप् । मस्य वः । उगित्त्वान् ङीप् ।)
रतिः । कामपत्नी । इति जटाधरः ॥ तस्या नामकारणं यथा, — श्रीपराशर उवाच । “एतस्मिन्नन्तरे प्राप्तः सह कृष्णेन नारदः । अन्तःपुरचरीं देवीं रुक्मिणीं प्राह हर्षयन् ॥ एष ते तनयः सुभ्रु ! हत्वा शम्बरमागतः । हृतो येनाभवद्बालो भवत्याः सूतिकागृहात् ॥ इयं मायावती भार्य्या तनयस्यास्य ते सती । शम्बरस्य न भार्य्येयं श्रूयतामत्र कारणम् ॥ मन्मथे तु गते नाशं तदुद्भवपरायणा । शम्बरं मोहयामास मायारूपेण रूपिणी ॥ व्यवायाद्युपभोगेषु रूपं मायामयं शुभम् । दर्शयामास दैत्यस्य तस्येयं मदिरेक्षणा ॥” इति विष्णुपुराणे ५ अंशे २७ अध्यायः ॥ (विद्याधरीविशेषः । यथा, कथासरित्सागरे । १३ । ३५ । “अहं मायावती नाम राजन् ! विद्याधराङ्गना । इयन्तं कालमभवं शापदोषेण हस्तिनी ॥” राजकन्याविशेषः । यथात्रैव । ११२ । ११२ । “अभून्मलयसिंहाख्यो राजा राजगृहे पुरा । तस्य मायावतीत्यासीद्रूपेणाप्रतिमा सुता ॥”)



Correction: