संस्कृत-शब्दकोशः

मायावसिक मायासीता

मायाविन्

वाचस्पत्यम्

मायाविन् ||‍ त्रि० माया + अस्त्यर्थे विनि । १ मायाकरे स्त्रियां ङीप् २ विडाले पु० राजनि० ।


शब्दकल्पद्रुमः

मायावी || [न्] पुं, (प्रशस्ता मायाकापट्यमस्त्य- स्येति । माया + “अस्मायामेधास्रजो विनिः ।” ५ । २ । १२१ । इति विनिः ।)
मायाकारः । तत्पर्य्यायः । व्यंसकः २ मायी ३ मायिकः ४ ऐन्द्रजालिकः ५ । इति जटाधरः ॥ (यथा, मार्कण्डेये । २२ । ७ । “मायावी दानवः सोऽथ मुनिरूपं समास्थितः । स प्राह राजपुत्त्रं तं पूर्ब्बवैरमनुस्मरन् ॥”)
विडालः । इति राजनिर्घण्टः ॥ (मोहन- शक्तियुक्तः परमात्मा । यथा, पञ्चदश्याम् । ६ । ४ । “स्ततश्चिदन्तर्यामी तु मायावी सूक्ष्मसृष्टितः । सूत्रात्मा स्थूलसृष्ट्यैव विराडित्युच्यते परः ॥”)



Correction: