शब्दकल्पद्रुमः
मायासीता || स्त्री (मायाकल्पिता सीता ।)
योगेन अग्निकृतसीताप्रतिकृतिः । यथा, — अग्निरुवाच । “भगवन् ! श्रूयतां वाक्यं कालेन यदुपस्थितम् । सीताहरणकालोऽयं तत्रैव समुपस्थितः ॥ दैवञ्च दुर्निवारञ्च न च दैवात् परं बलम् । मत्प्रसूं मयि संन्यस्य छाया रक्ष्यान्तिकेऽधुना ॥ दास्यामि सीतां तुभ्यञ्च परीक्षासमये मम । देवैः प्रस्थापितोऽहञ्च न च विप्रो हुता- शनः ॥ रामस्तद्बचनं श्रुत्वा न प्रकाश्य च लक्ष्मणम् । स्वीचकार च स्वच्छन्दं हृदयेन विदूयता ॥ वह्निर्योगेन सीताया मायासीतां चकार सः । तद्रूपगुणसर्व्वांशां ददौ रामाय नारद ! ॥ सीतां गृहीत्वा स ययौ गोप्यं वक्तुं निषिध्य च । लक्ष्मणो नैव बुबुधे गोप्यमन्यस्य का कथा ॥ लङ्कां गत्वा रघुश्रेष्ठो जघान शायकेन च । सबान्धवं रावणञ्च सीतां संप्राप दुःखिताम् ॥ ताञ्च वह्निपरीक्षाञ्च कारयामास सत्वरम् । हुताशस्तत्र काले च वास्तवीं जानकीं ददौ ॥ उवाच छाया वह्निञ्च रामञ्च विनयान्विता । करिष्यामीति किमहं तदुपायं वदस्व मे ॥” वह्निरुवाच । “त्वं गच्छ तपसे देवि ! पुष्करञ्च सुपुण्यदम् । कृत्वा तपस्यां तत्रैव स्वर्गलक्ष्मीर्भविष्यसि ॥ सा च तद्वचनं श्रुत्वा प्रतप्य पुष्करे तपः । दिव्यं त्रिलक्षवर्षञ्च स्वर्गलक्ष्मीर्ब्बभूव ह ॥ सा च कालेन तपसा यज्ञकुण्डसमुद्भवा । कामिनी पाण्डवानाञ्च द्रौपदी द्रुपदात्मजा ॥ कृते युगे वेदवती कुशध्वजसुता शुभा । त्रेतायां रामपत्नी सा सीतेति जनकात्मजा ॥ तच्छाया द्रौपदी देवी द्वापरे द्रुपदात्मजा । त्रिहायंणीति सा प्रोक्ता विद्यमाना युगत्रये ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १४ अध्यायः ॥