संस्कृत-शब्दकोशः

मायासुत मायिन्

मायिक

वाचस्पत्यम्

मायिक ||‍ त्रि० मायास्त्यस्य ठन् । मायाकरे जटा० । इनि मायीप्यत्न ।


शब्दकल्पद्रुमः

मायिकं || क्ली (माया मोहनगुणः विद्यतेऽस्मिन् । माया + “ब्रीह्यादिभ्यश्च ।” ५ । २ । ११६ । इति ठन् ।)
मायाफलम् । इति राजनिर्घण्टः ॥ ग्रन्थान्तरे मायिका माद्रका इत्यपि पाठः ॥


शब्दकल्पद्रुमः

मायिकः || पुं, (माया अस्त्यस्य । माया + “ब्रीह्यादि- भ्यश्च ।” ५ । २ । ११६ । इति ठन् ।)
माया- कारः । इति जटाधरः ॥ (यथा, देवीभाग- वते । ४ । १९ । ४ । “यन्मायामोहितश्चाहं सदा वर्त्ते परात्मनः । परवान् दारुपाञ्चाली मायिकस्य यथा वशे ॥” मायाविशिष्टे, त्रि ॥)



Correction: