वाचस्पत्यम्
मायु || पु० मा—यु नाऽनादेशः । देहस्थे पित्ते धातौ अमरः ।
शब्दकल्पद्रुमः
मायुः || पुं, (मिनोति प्रक्षिपति देहे उष्माणमिति । मिञ् प्रक्षेपणे + “कृवापाजिमिस्वदिसाध्यशूभ्य उण् ।” उणा० १ । १ । इति उण् । “मीनाति मिनोतिदीङां लपि च ।” ६ । १ । ५० । इत्या- त्वम् । “आतो युक् चिण्कृतोः ।” ७ । ३ । ३३ । इति युक् ।)
पित्तम् । इत्यमरः । २ । ६ । ६२ ॥ (शब्दः । यथा, ऋग्वेदे । १ । १६४ । २८ । “सृक्काणं घर्म्ममभिवावशाना मिमाति मायुं पयते पयोभिः ॥” “मायुं शब्दं मिमाति निर्म्माति करोति ।” इति तद्भाष्ये सायणः ॥ वाक् । इति निरुक्ते । १ । ११ ॥)