संस्कृत-शब्दकोशः

मायूरी मारक

मार

वाचस्पत्यम्

मार ||‍ पु० मृ—घञ् । १ मरणे । मारयति मृ—णिच्—अच् । २ कामदेवे ३ विघ्ने मेदि० । ४ धुस्तूरे च शब्दच० ।


शब्दकल्पद्रुमः

मारः || पुं, (मृ + भावे घञ् ।)
मृतिः । (यथा, बृहत्संहितायाम् । ३ । ३१ । “क्षुन्मारकृद्घटनिभः खण्डो नृपहा विदी- धितिर्भयदः ।”)
म्रियन्ते प्राणिनोऽनेन । मृ + घञ् ।)
काम- देवः । (यथा, नैषधे । ४ । ७९ । “अनुममार न मार ! कथं नु सा रतिरतिप्रथितापि पतिव्रता । विरहिणीशतघातनपातकी दयितयापि तयासि किमुज्झितः ॥”)
विघ्नः । इति मेदिनी । रे, ७६ ॥ (मृ + णिच् + घञ् ।)
मारणम् । इति हेमचन्द्रः । २ । ३६ ॥ धुस्तूरः । इति शब्दचन्द्रिका ॥ मारगणोत्पत्ति- र्यथा, — माकेण्डेय उवाच । “मनोभवस्य वचनं श्रुत्वाथ चतुराननः । विवक्षुरपि तद्वाक्यं श्रुत्वानुत्साहकारकम् ॥ सर्व्वस्य मोहने ब्रह्मा चिन्ताविष्टोऽभवन्नहि । समर्थो मोहितुमिति निशश्वास मुहुर्मुहुः ॥ निश्वासमारुतात्तस्य नानारूपा महाबलाः । जाता गणा लोलजिह्वा लोलाश्चातिभयङ्कराः तुरङ्गवदनाः केचित् केचिद्गजमुखास्तथा । सिंहव्याघ्रमुखाश्चान्ये श्ववराहखराननाः ॥ ऋक्षमार्ज्जारवदनाः शरभास्याः शुकाननाः । प्लवगोमायुवक्त्राश्च सरीसृपमुखाः परे ॥ गोरूपा गोमुखाः केचित्तथा पक्षिमुखाः परे । महादीर्घा महाह्रस्वा महास्थूला महाकृशाः ॥ पिङ्गाक्षा विरलाक्षाश्च त्र्यक्षैकाक्षा महो- दराः । एककर्णास्त्रिकर्णाश्च चतुष्कर्णास्तथापरे । स्थूलकर्णा दीर्घकर्णा बहुकर्णा विकर्णकाः । दीर्घाक्षा स्थूलनेत्राश्च सूक्ष्मनेत्रा विदृष्टयः ॥ चतुष्पादाः पञ्चपादास्त्रिपादैकपदास्तथा । ह्रस्वपादा दीर्घपादाः स्थूलपादा महापदाः ॥ एकहस्ताश्चतुर्हस्ता द्विहस्तास्त्रिशयास्तथा । विहस्ताश्च विरूपाक्षा गोधिकाकृतयः परे ॥ मनुष्याकृतयः केचित् शिशुमारमुखाः परे । क्रौञ्चाकारा बकाकारा हंससारसरूपिणः ॥ तथैव मद्गुरबककङ्ककाकमुखास्तथा । अर्द्धनीला अर्द्धरक्ताः कपिलाः पिङ्गलास्तथा ॥ नीलाः शुक्लास्तथा पीता हरिताश्चित्ररूपिणः । अवादयन्त ते शङ्खान् पटहान् परिवादिनः ॥ मृदङ्गान् डिण्डिमांश्चैव गोमुखान् पणवांस्तथा । सर्व्वे जटाभिः पिङ्गाभिस्तुङ्गाभिश्च करान्विताः ॥ निरन्तराभिर्व्विप्रेन्द्रा गणाः स्यन्दनगामिनः । शूलहस्ताः पाशहस्ताः खड्गहस्ता धनुर्धराः ॥ शक्त्यङ्कुशगदाबाणपट्टिसप्रासपाणयः । नानायुधा महानादं कुर्व्वन्तस्ते महाबलाः ॥ मारय च्छेदयेत्यूचुर्ब्रह्मणः पुरतो गणाः । तेषान्तु वदतां तत्र मारय च्छेदयेत्युत । योगनिद्राप्रभावात् स विधिर्वक्तुं प्रचक्रमे ॥ अथ ब्रह्माणमाभाष्य तान् दृष्ट्वा मदनो गणान् । उवाच वारयन् वक्तुं गणानामग्रतः स्मरः ॥ मदन उवाच । किं कर्म्मैते करिष्यन्ति कुत्र स्थास्यन्ति वा विधे ! । किं नामधेया एते वा तत्रैतान् विनियोजय ॥ नियुज्यैतान् निजे कृत्ये स्थानं दत्त्वा च नाम च । कृत्वा पश्चान्महामायाप्रभावं कथयस्व मे ॥” मार्कण्डेय उवाच । “अथ तद्वाक्य माकर्ण्य सर्व्वलोकपितामहः । गणान् समदनानाह तेषां कर्म्मादिकं दिशन् ॥ ब्रह्मोवाच । “एते तूत्पन्नमात्रा हि मारयेति यदब्रुवन् । मुहुर्मुहुरतोऽमीषां नाम मारेति जायताम् ॥ मारात्मकत्वादप्येते माराः सन्तु च नामतः । सदैव विघ्नं जन्तूनां करिष्यन्ति विनार्च्चनम् । तवानुगमनं कर्म्म मुख्यमेषां मनोभव ! ॥ यत्र यत्र भवान् याता स्वकर्म्मार्थं यदा यदा । गन्तारस्तत्र तत्रैते साहाय्याय तदा तदा ॥ चित्तोद्भ्रान्तिं करिष्यन्ति त्वदस्त्रवशवर्त्तिनाम् । ज्ञानिनां ज्ञानमार्गञ्च विघ्नयिष्यन्ति सर्व्वदा ॥ यथा सांसारिकं कर्म्म सर्व्वे कुर्व्वन्ति जन्तवः । तथा चैते करिष्यन्ति सविघ्नमपि सर्व्वतः ॥ इमे स्यास्यन्ति सर्व्वत्र वेगिवः कामरूपिणः । त्वमेवैषां गणाध्यक्षः पञ्चयज्ञाङ्गभोजिनः । नित्यक्रियावतां तोयभोगिनोऽपि भवन्त्विमे ॥” इति कालिकापुराणे ६ अध्यायः ॥



Correction: