वाचस्पत्यम्
मारक || पु० मृ—णिच्—ण्वुल् मृ—णिच् घञ् स्वार्थे क वा । १ मरके मारिभये त्रिका० । (वाज) २ पक्षिभेदे च । ३ नाशके त्रि० । जन्मलग्नावधिकाष्टमस्थानपतौ ४ ग्रहभेदे पु० “भाग्यव्ययाधिपत्येन रब्ध्रेशोमारकः स्मृतः” पराशरः । ५ द्वितीयसप्तमाधीशे च मारकस्थानशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
मारकः || पुं, (म्रियन्ते प्राणिनः यस्मिन् येनेति वा । मृ + घञ् । ततः संज्ञायां कन् ।)
मरकः । तत्- पर्य्यायः । मारिः २ उत्पातः ३ । इति त्रिकाण्ड- शेषः ॥ पक्षिविशेषः । वाज् इति भाषा । तत्पर्य्यायः । घातिपक्षी २ ग्राहकः ३ । इति भूरिप्रयोगः ॥ मारणकर्त्तरि त्रि ॥