मारित
मारिष
मारिव्यसनवारक
शब्दकल्पद्रुमः
मारिव्यसनवारकः || पुं, (मारिजन्यं व्यसनं तद्वारय- तीति । वृ + णिच् + अण् ।)
राजर्षिविशेषः । यथा, —
“कुमारपालश्चौलुक्यो राजर्षिः परमार्हतः । मृतस्वमोक्ता धर्म्मात्मा मारिव्यसनवारकः ॥” इति हेमचन्द्रः । ३ । ३७७ ॥