वाचस्पत्यम्
मारुतव्रत || न० “प्रविश्य सर्वभूतानि यथा चरति मारुतः । तथाचरैः प्रवेष्टव्यं व्रतमेतद्धि मारुतम्” मनूक्ते राज्ञां धर्मभेदे ।
शब्दकल्पद्रुमः
मारुतव्रतं || क्ली (मारुतस्य व्रतमिव व्रतं नियमो- ऽस्य ।)
राजधर्म्मविशेषः । यथा, —
“प्रविश्य सर्व्वभूतानि यथा चरति मारुतः । तथा चरैः प्रवेष्टव्यं व्रतमेतद्धि मारुतम् ॥” इति मात्स्ये २०० अध्यायः ॥