शब्दकल्पद्रुमः
मारुतः || पुं, (मरुदेव । मरुत् + “प्रज्ञादिभ्यश्च ।” ५ । ४ । ३८ । इति स्वार्थेऽण् ।)
वायुः । इत्यमरः । १ । १ । ६५ ॥ म्रियतेऽनेन क्रुद्धेन नाम्नीति मृ ङ उत् मरुत् मरुदेव मारुतः स्वार्थे ष्णः । इति तट्टीकायां भरतः ॥ (यथा, मनौ । ४ । १२२ — १२३ । “अतिथिञ्चाननुज्ञाप्य मारुते वाति वा भृशम् । रुचिरे च श्रुते गात्राच्छस्त्रेण च परिक्षते । सामध्वनावृग्यजुषी नाधीयीत कदाचन ॥)
अस्योत्पत्तिर्यथा, — कश्यप उवाच । “पुत्त्रस्ते भविता भद्रे ! इन्द्रहा देवबान्धवः । संवत्सरं व्रतमिदं यद्यञ्जो धारयिष्यसि ॥” अञ्जो यथावत् । “संवत्सरं पुंसवनं व्रतमेतदविप्लुतम् । धारयिष्यसि चेत्तुभ्यं शक्रहा भविता सुतः ॥ वाढमित्यभ्युपेत्याथ दिती राजन् ! महामनाः । कश्यपाद्गर्भमाधत्त व्रतञ्चाञ्जो दधार सा । मातृष्वसुरभिप्रायमिन्द्र आज्ञाय मानद ! ॥ शुश्रूषणेनाश्रमस्थां दितिं पर्य्यचरत् कविः । एवं तस्या व्रतस्थाया व्रतच्छिद्रं हरिर्नृप ! ॥ प्रेप्सुः पर्य्यचरत् जिह्मो मृगस्येव मृगाकृतिः । नाध्यगच्छद्व्रतच्छिद्रं तत्परोऽथ महीपते ! ॥ चिन्तां तीव्रां गतः शक्रः केन मे स्याच्छिवं त्विह ॥ एकदा सा तु सन्ध्यायामुच्छिष्टा व्रतकर्षिता । अस्पृष्टवार्य्यधौताङ्घ्रिः सुष्वाप विधिमोहिता ॥ लब्ध्वा तदन्तरं शक्रो निद्रापहृतचेतसः । दितेः प्रविष्ट उदरं योगेशो योगमायया ॥ चकर्त्त सप्तधा गर्भं वज्रेण कनकप्रभम् ॥ रुदन्तं सप्तधैकैकं मा रोदीरिति तान् पुनः । तमूचुः पाट्यमानास्ते सर्व्वे प्राञ्जलयो नृप ! ॥ किं न इन्द्र जिघांससि भ्रातरो मरुतस्तव । मा भैष्ट भ्रातरो मह्यं यूयमित्याह कौशिकः ॥ अनन्यभावान् पार्षदानात्मनो मरुतां गणान् । न ममार दितेर्गर्भः श्रीनिवासानुकम्पया ॥ सजूरिन्द्रेण पञ्चाशत् देवास्ते मरुतोऽभवन् । व्यपोह्य मातृदोषं ते हरिणा सोमपाः कृताः ॥ दितिरुत्थाय ददृशे कुमाराननलप्रभान् । इन्द्रेण सहितान्देवी पर्य्यतुष्यदनिन्दिता ॥ अथेन्द्रमाह ताताहमादित्यानां भयावहम् । अपत्यमिच्छन्त्यचरं ब्रतमेतं सुदुष्करम् ॥ एकः सङ्कल्पितः पुत्त्रः सप्तसप्ताभवन् कथम् । यदि ते विदितं पुत्त्र ! सत्यं कथय मा मृषा ॥ इन्द्र उवाच । अम्ब ! तेऽहं व्यवसितमुपधार्य्य गतोऽन्तिकम् । लब्ध्वान्तरोऽच्छिनं गर्भमर्थबुद्धिर्न धर्म्मदृक् ॥ कृत्तो मे सप्तधा गर्भ आसन् सप्त कुमारकाः । तेऽपि चैकैकशो वृक्नाः सप्तधा नापि मम्रिरे ॥ ततस्तत्परमाश्चर्य्यं वीक्ष्य व्यवसितं मया । महापुरुषपूजायाः सिद्धिः काप्यानुषङ्गिकी ॥ तदिदं मम दौर्ज्जन्यं बालिशस्य महीयसि ! । क्षन्तुमर्हसि मातस्त्वं दिष्ट्या गर्भो मृतोत्थितः ॥ श्रीशुक उवाच । इन्द्रस्तयाभ्यनुज्ञातः शुद्धभावेन तुष्टया । मरुद्भिः सह तां नत्वा जगाम त्रिदिवं प्रभुः ॥” इति श्रीभागवते ६ स्कन्धे १८ अध्यायः ॥ (जनपदविशेषः । यथा, महाभारते । ६ । ४७ । ४९ — ५० । “मारुता धेनुकाश्चैव तङ्गणाः परतङ्गणाः । वाह्लीकास्तित्तिराश्चैव चोलाः पाण्ड्याश्च भारत ! ॥ एते जनपदा राजन् ! दक्षिणं पक्षमा- श्रिताः ॥” अग्निभेदः । यथा, गृह्यसंग्रहपरिशिष्टे । १ । २ । “अग्निस्तु मारुतो नाम गर्भाधाने विधीयते ॥” मरुत्सम्बन्धिनि, त्रि । यथा, ऋग्वेदे । २ । ११ । १४ । “रासि क्षयं रासि मित्रमम्मे रासि शर्ध इन्द्र मारुतं नः ॥” “मारुतं मरुतां देवविशां सम्बन्धि ।” इति तद्भाष्पे सायणः ॥)