संस्कृत-शब्दकोशः

मार्गक मार्गणक

मार्गण

वाचस्पत्यम्

मार्गण ||‍ न० मार्ग—ल्युट् । १ अन्वेषणे अमरः । २ याचने ३ प्रणये च मेदि० । कर्त्तरि ल्यु । ४ याचके त्रि० ५ शरे पु० अमरः ।


शब्दकल्पद्रुमः

मार्गणं || क्ली (मार्ग्यते अन्विष्यत इति । मार्ग + भावे ल्युट् ।)
अन्वेषणम् । तत्पर्य्यायः । सम्बी- क्षणम् २ विचयनम् ३ मृगणा ४ मृगः ५ इत्यमरः । ३ । २ । ३० ॥ याच्ञा । इति मेदिनी ॥ णे, ७१ । प्रणयः । इति जटाधरः ॥ (मार्गयतीति । मार्ग + ल्युः ।)
याचके, त्रि । इत्यमरः । ३ । १ । ४९ ॥


शब्दकल्पद्रुमः

मार्गणः || पुं, (मार्गयति लक्ष्यमिति । मार्ग + ल्युः ।)
शरः । इत्यमरः । २ । ८ । ८७ ॥ यथा, महा- भारते । ६ । ११५ । ४४ । “ते सर्वे दृढधन्वानः संयुगेष्वपलायिनः । बहुधा भीष्ममानर्च्छुर्मार्गणैः कृतमार्गणैः ॥ मार्गयति धनाथ दातारमिति । मार्ग + ल्युः ।)
याचकः । इति मेदिनी । णे, ७१ ॥



Correction: