शब्दकल्पद्रुमः
मार्गिकः || त्रि (मृगान् हन्तीति । मृग + “पक्षि- मत्स्यमृगान् हन्ति ।” ४ । ४ । ३५ । इति ठक् ।) मृगहन्ता । (मार्गो गम्यत्वेनास्त्यस्य । ठन् ।) पथिकः । इति सिद्धान्तकौमुदी ॥