वाचस्पत्यम्
मार्ज्ज || मार्जने सक० ध्वनौ अक० चुरा० उभ० सेट् । मार्ज- यति—ते अममार्जत्—त ।
शब्दकल्पद्रुमः
मार्ज्ज || क मार्ज्जने । ध्वनौ । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।)
क मार्ज्जयति । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
मार्ज्जः || पुं, (मार्ज्जयति पापमलं प्रक्षाल्य उद्धरति जनानिति । मार्ज्ज + णिच् + अच् ।)
विष्णुः । इति हेमचन्द्रः । २ । ४४ ॥ (मार्ज्जयति वसन- मलमिति । मार्ज्ज् + अच् ।)
रजकः । इति शब्दमाला ॥ मार्जनम् । इत्यमरटीकायां भरतः ॥