वाचस्पत्यम्
मार्ज्जन || न० मृज—ल्युट् । प्रोञ्छनादिना निर्मलीकरणे । युच् । तत्रैवार्थे स्त्री । सा च २ मुरजघ्वनौ हेमच० । करणेल्युट् । सम्मार्जन्याम् (झाँटा) । स्त्री ङीप् अमरः ।
शब्दकल्पद्रुमः
मार्ज्जनं || क्ली (मार्ज्ज्यते इति । मार्ज्ज् + भावे ल्युट् ।)
प्रोञ्छनादिना अङ्गनिर्म्मलीकरणम् । माजा इति भाषा । तत्पर्य्यायः । मार्ष्टिः २ मार्ष्टी ३ मार्ज्जना ४ मृजा ५ । इति शब्द- रत्नावली ॥ मार्ज्जः ६ मार्ज्जा ७ । इत्यमर- टीकायां भरतः ॥ (यथा, श्रीमद्भागवते । ९ । ४ । १८ । “स वै मनः कृष्णपदारबिन्दयो र्वचांसि वैकुण्ठगुणानुवर्णने । करौ हरेर्मन्दिरमार्ज्जनादिषु श्रुतिं चकाराच्युतसत्कथोदये ॥”)
स्नानकाले शरीरमार्ज्जनगुणाः । “दौर्गन्ध्यं गौरवं कण्डूं कच्छुं मलमरोचकम् । स्वेदं वीभत्सतां हन्ति शरीरपरिमार्ज्जनम् ॥ इति राजवल्लभः ॥ देवीगृहमार्ज्जनफलं यथा, —
“देव्या गृहन्तु यः शुक्र ! संमार्ज्जयति नित्यशः । स भवेद्बलवान् सौख्यसर्व्वसम्पत्तिसंयुतः ॥ देव्या गृहन्तु यः शुक्र ! गोमयेनानुलेपयेत् । स्त्रियो वा यदि वा पुंसः षण्मासन्तु निरन्तरम् । स लभेदीप्सितान् कामान् देव्या लोकञ्च गच्छति ॥” इति देवीपुराणे ४२ अध्यायः ॥ अथ भगवन्मन्दिरमार्जनमाहात्म्यम् । “नरसिंहगृहे नित्यं यः संमार्जनमाचरेत् । समस्तपापनिर्मुक्तो विष्णुलोके स मोदते ॥” इति नृसिंहपुराणम् ॥ “संमार्जनन्तु यः कुर्य्यात् पुरुषः केशवालये । रजस्तमोभ्यां निर्मुक्तः स भवेन्नात्र संशयः ॥ पांशूनां यावतां राजन् ! कुर्य्यात् संमार्जनं नरः । तावन्त्यब्दानि स सुखी नाकमासाद्य मोदते ॥” इति विष्णुधर्म्मोत्तरम् ॥ “यावत्कानि प्रवाहाणि भूमिसंमार्जने ददुः । तावद्बर्षसहस्राणि शाकद्बीपे महीयते ॥ जायते मम भक्तश्च सर्व्वधर्म्मसमन्वितः । शुचिर्भागवतः शुद्धो ह्यपराधविवर्जितः ॥ ततो भुक्त्वा सर्व्वभोगान् तीर्त्वा संसारसागरम् । शाकद्वीपात् परिभ्रष्टः स्वर्गलोकं स गच्छति ॥ नन्दनं वनमाश्रित्य मोदते चाप्सरैः सह । नन्दनाच्च परिभ्रष्टो मम कर्म्मव्यवस्थितः । सर्व्वसङ्गान् परित्यज्य मम लोकन्तु गच्छति ॥” इति वराहपुराणम् ॥ * ॥
स्नानविशेषः । यथा । आतुराणान्तु । “अशिरस्कं भवेत् स्नानं स्नानाशक्तौ तु कर्म्मिणाम् । आर्द्रेण वाससा वापि मार्ज्जनं दैहिकं विदुः ॥” इति जावालवचनाच्छिरो विहाय गात्रप्रक्षा- लनं तदशक्तौ सर्व्वगात्रमार्ज्जनं आर्द्रेण वाससा कुर्य्यात् । इत्याह्निकाचारतत्त्वम् ॥ * ॥
वैदिक- सन्ध्योपासनान्तर्गतमार्जनं यथा । छन्दोगपरि- शिष्टम् । “शिरसो मार्जनं कुर्य्यात् कुशैः सोदक- बिन्दुभिः । प्रणवो भूर्भुवः स्वश्च गायत्त्री च तृतीयिका ॥ अब्दैवत्यं त्र्यृचञ्चैव चतुर्थमिति मार्जनम् ॥” ओङ्कारो भूरादिव्याहृतित्रयं तृतीया च गायत्त्री चतुर्थमापोहिष्ठेति ऋक्त्रयम् । इतीदं मार्जनं मार्जनक्रियाकरणमित्यर्थः । रामायणम् । “ऋगन्ते मार्जनं कुर्य्यात् पादान्ते वा समाहितः । आपोहिष्ठेत्यृचा कार्य्यं मार्जनन्तु कुशोदकैः ॥ प्रतिप्रणवसंयुक्तं क्षिपेन्मुर्द्ध्नि पदे पदे । त्र्यृचस्यान्तेऽथवा कुर्य्यादृषीणां मतमीदृशम् ॥ आपोहिष्ठेतिसूक्तस्य सिन्धुद्बीप ऋषिः स्मृतः । आपो वै देवता च्छन्दो गायत्त्री मार्जनं स्मृतम् ॥” इत्याह्निकाचारतत्त्वम् ॥
शब्दकल्पद्रुमः
मार्ज्जनः || पुं, (मार्ज्ज्यतेऽनेनेति । मार्ज्ज + ल्युट् ।)
लोध्रवृक्षः । इत्यमरः । २ । ४ । ३३ ॥ श्वेतलोध्रः । इति सुभूतिः ॥ रक्तलोध्रः । इति स्वामी ॥