वाचस्पत्यम्
मार्ज्जार(ल) || पुंस्त्री० मृज—आरन् वा रस्य लः । १ विडाले अमरः स्त्रियां ङीष् । २ रक्तचित्रके पु० राजनि० । ३ ख- ट्टासे च हेमच० । ततः संज्ञायां कन् । मयूरे ।
शब्दकल्पद्रुमः
मार्जारः || पुं, (मृज् + “कञ्जिमृजिभ्यां चित् ।” उणा० ३ । १३७ । इति आरन् चित् । “मृजे- र्वृद्धिः ।” इत्युज्ज्वलदत्तोक्तेर्वृद्धिश्च ।)
रक्त- चित्रकः । इति राजनिर्घण्टः ॥ विडालः । इत्यमरः । २ । ५ । ६ ॥ (यथा, महाभारते । ५ । १५९ । १६ । “मार्ज्जारः किल दुष्टात्मा निश्चेष्टः सर्व्व- कर्म्मसु ॥”)
खट्टासः । इति हेमचन्द्रः । ४ । ३६७ ॥ * ॥
मार्जारस्पर्शने दोषो यथा, —
“अभोज्यसूतिकाषण्डमार्जाराखुश्च कुक्कुरान् । पतितापविद्धचण्डालमृतहारांश्च धर्म्मवित् । संस्पृश्य शुध्यते स्नानादुदक्याग्रामशूकरौ ॥” इति मार्कण्डेयपुराणे सदाचाराध्यायः ॥ * ॥
पारिभाषिकमार्जारो यथा, —
“दम्भार्थं जपते यश्च तप्यते यजते तथा । न परत्रार्थमुद्युक्तो मार्जारः परिकीर्त्तितः ॥” तस्यान्नमभोज्यं यथा, — ‘अभोज्याः सूतिकाषण्डमार्जाराख्वश्वकुक्कुटाः ॥’ इति वामनपुराणे १५ अध्यायः ॥