शब्दकल्पद्रुमः
मार्जारकर्णी || स्त्री मार्ज्जारस्येव कर्णावस्याः । ङीप् । चामुण्डा । यथा, — “मार्जारकर्णी चामुण्डा कर्णमोटिश्च चर्च्चिका ॥” इति त्रिकाण्डशेषः ॥