शब्दकल्पद्रुमः
मार्जारगन्धिका || स्त्री (मार्ज्जारगन्ध । कन् । टाप् । अत इत्वञ्च ।)
मुद्गपर्णी । इति राज- निर्घण्टः ॥ (तथास्याः पर्य्यायः । “मुद्गपर्णी काकपर्णी सूर्य्यपर्ण्यल्पिका सहा । काकमुद्गा च सा प्रोक्ता तथा मार्जारगन्धिका ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)