वाचस्पत्यम्
मार्ज्जारी || स्त्री मृज—आरक् गौरा० ङीष् । १ कस्तूर्य्याम् २ खट्टासजन्तौ २ मार्जारयोषिति च मेदि० ।
शब्दकल्पद्रुमः
मार्जारी || स्त्री (मार्ष्टि शोधयति केशादिकम- नया । मृज् + आरन् । स्त्रियां ङीष् ।)
कस्तूरी । जन्तुविशेषः । गन्धगकुला इति खाटासी इति च भाषा । तत्पर्य्यायः । पूतिका २ पूतिकजः ३ गन्धचेलिका ४ । अस्या गुणाः । वान्तिधार- कत्वम् । चक्षुष्यत्वम् । कफवातनाशित्वञ्च । इति राजनिर्घण्टः ॥