शब्दकल्पद्रुमः
मार्जिता || स्त्री (मार्ज्यते घृष्यते पाणिनेति । मृज् + णिच् + कर्म्मणि क्तः । स्त्रियां टाप् ।)
रसाला । इत्यमरः । २ । ९ । ४४ ॥ सा तु दधिखण्डमधु- सर्पिर्मरिचादिकृतकर्पूरादिवासितसद्भक्ष्य- विशेषः । इत्यमरटीकायां भरतः ॥ (गुणादयो- ऽस्या रसालाशब्दे ज्ञातव्याः ॥)
शोधिते, त्रि ॥