संस्कृत-शब्दकोशः

मार्जिता मार्तण्डवल्लभा

मार्तण्ड

वाचस्पत्यम्

मार्त्तण्ड ||‍ पु० मृते अण्डे भवः अण् शक० । १ सूर्य्ये । तस्य मृताण्डजन्म च “मारितञ्च यतः प्रोक्तमेतदण्डं त्वयो- दित । तस्मान्मुने! सुतस्तेऽयं मार्त्तण्डाख्यो भवि- ष्यतति” मार्क० पु० । २ अर्कवृक्षे अमरः । ३ शूकरे पुंस्त्री० मेदि० स्त्रियां ङीष् ।


शब्दकल्पद्रुमः

मार्त्तण्डः || पुं, (मृतश्चासौ अण्डश्चेति । मृताण्डे भवतीति । मृताण्ड + “तत्र भवः ।” ४ । ३ । ५३ । इति अण् ।)
सूर्य्यः । (तन्निरुक्तिश्च । यथा, —
“अनिष्पन्नेषु गात्रेषु पुत्त्रं दृष्ट्वा पिताब्रवीत् । आर्त्तस्त्वं भव माण्डेति मार्त्तण्डस्तेन स स्मृतः ॥” यथा, मार्कण्डेये । ७७ । १ । “मार्त्तण्डस्य रवेर्भार्य्या तनया विश्वकर्म्मणः । संज्ञा नाम महाभाग ! तस्यां भानुरजीजनत् ॥” अर्कवृक्षः । इत्यमरः ॥ शूकरः । इति मेदिनी । ते, ३५ ॥ मार्त्तण्डोत्पत्तिर्यथा, — मार्कण्डेय उवाच । “एवं सा नियता देवी चक्रे स्तोत्रमहनिशम् । निराहारा विवस्वन्तमारिराधयिषुर्मुने ! ॥ ततः कालेन महता भगवांस्तपनो मुने ! । प्रत्यक्षतामगात्तस्या दाक्षायण्या द्विजोत्तम ! ॥ सा ददर्श महाकूटं तेजसोऽम्बरसंस्थितम् । भूमौ च संस्थितं भास्वज्ज्वालामालातिदुर्द्दृशम् ॥ तञ्च दृष्ट्वा ततो देवी साध्वसं परमं गता । जगादाद्य ! प्रसीदेति न त्वां पश्यामि गोपते ! ॥ यथा दृष्टवती पूर्ब्बमम्बरस्थं सुदुर्दृशम् । संघातं तेजसस्तस्मादिह पश्यामि भूतले ॥ प्रसादं कुरु पश्येयं यद्रूपं ते प्रभाकर ! । भक्तानुकम्पन ! विभो ! भक्ताहं पाहि मे सुतान् ॥” श्रीमार्कण्डेय उवाच । “ततः स तेजसस्तस्मादाविर्भूतो विभावसुः । अदृश्यत तदादित्यस्तप्तताम्रोपमप्रभः ॥ अथ तां प्रागतां देवीं तस्य सन्दर्शनान्मुने ! । प्राह भास्वान् वृणुष्वेष्टं वरं मत्तो यमिच्छसि ॥ प्रणता शिरसा सा च जानुपीडितमेदिनी । प्रत्युवाच विवस्वन्तं वरदं समुपस्थितम् ॥ देव ! प्रसीद पुत्त्राणां हृतं त्रिभुवनं मम । यज्ञभागाश्च दैतेयैर्दानवैश्च बलाधिकैः ॥ तन्निमित्तं प्रसादं त्वं कुरुष्व मम गोपते ! । अंशेन तेषां भ्रातृत्वं गत्वा नाशय तद्रिपून् ॥ यथा मे तनया भूयो यज्ञभागभुजः प्रभो ! । भवेयुरधिपाश्चैव त्रैलोक्यस्य दिवाकर ! ॥ तथानुकम्पां पुत्त्राणां सुप्रसन्नो रवे ! मम । कुरु प्रसन्नार्त्तिहर ! स्थितिकर्त्ता त्वमद्य मे ॥” मार्कण्डेय उवाच । “ततस्तामाह भगवान् भास्करो वारितस्करः । प्रणतामदितिं विप्र ! प्रसादसुमुखो विभुः ॥ सहस्रांशेन ते गर्भे सम्भूयाहमशेषतः । तत्पुत्त्रशत्रूनदिते ! नाशयाम्याशु निर्वृता ॥ इत्युक्त्रा भगवान् भास्वानन्तर्द्धानमुपागमत् । निवृत्ता सापि तपसः संप्राप्ताखिलवाञ्छिता ॥ ततो रश्मिसहस्रान्तः सुषुम्नाख्यो रवेः करः । विप्रावतारं संचक्रे देवमातुरथोदरे ॥ कृच्छ्रचान्द्रायणादीनि सा चक्रे सुसमाहिता । शुचिः सन्धारयाम्येनं दिव्यं गर्भमिति द्बिज ! ॥ ततस्तां कश्यपः प्राह किञ्चित्कोपप्लुताक्षरम् । किं मारयसि गर्भाण्डमिति नित्योपवासिनी ॥ सा च तं प्राह गर्भाण्डमेतत् पश्येति कोपना । न मारितं विपक्षाणां मृत्यवे यद्भविष्यति ॥ इत्युक्त्रा तं तदा गर्भमुत्ससर्ज्ज सुरारणिः । जाज्वल्यमानं तेजोभिः प्रत्युवाच न कोपिता । तं दृष्ट्वा कश्यपो गर्भमुद्यद्भास्करवर्च्चसम् । तुष्टाव प्रणतो भूत्वा ऋग्भिराद्याभिरादरात् ॥ संस्तूयमानः स तदा गर्भाण्डात् प्रकटोऽभवत् । पद्मपत्रसवर्णाभस्तेजसा व्याप्तदिङ्मुखः ॥ अथान्तरीक्षादाभाष्य कश्यपं मुनिसत्तमम् । सतोयमेघगम्भीरा वागुवाचाशरीरिणी ॥ मारितञ्च यतः प्रोक्तमेतदण्डं त्वयादितिम् ॥ तस्मान्मुने ! सुतस्तेऽयं मार्त्तण्डाख्यो भविष्यति ॥ सूर्य्याधिकारञ्च विभुर्जगत्येष करिष्यति । हनिष्यत्यसुरांश्चायं यज्ञभागहरानरीन् ॥ देवा निशम्येति वचो गगनात् समुपागतम् । प्रहर्षमतुलं याता दानवाश्च हतौजसः ॥ ततो युद्धाय दैतेयानाजुहाव शतक्रतुः । सह देवैर्मुदायुक्तो दानवाश्च तमाययुः ॥ तेषां युद्धमभूद्घोरं देवानामसुरैः सह । शस्त्रास्त्रदीप्तिसन्दीप्तसमस्तभुवनान्तरम् ॥ तस्मिन् युद्धे भगवता मार्त्तण्डेन निरीक्षिताः । तेजस्रा दह्यमानास्तु भस्मीभूता महासुराः ॥ ततः प्रहर्षमतुलं प्रापुः सर्व्वे दिवौकसः ॥ तुष्टवुस्तेजसां योनिं मार्त्तण्डमदितिन्तथा ॥ स्वाधिकारं ततः प्रापुर्यज्ञभागांश्च पूर्ब्बवत् । भगवानपि मार्त्तण्डः स्वाधिकारमथाकरोत् ॥ कदम्बपुष्पवद्भास्वानधश्चोर्द्ध्वञ्च रश्मिभिः । वृत्तोऽग्निपिण्डसदृशो दध्रे नातिस्फुटं वपुः ॥” इति मार्कण्डेयपुराणे सूर्य्यमाहात्म्ये मार्त्त- ण्डोत्पत्तिनामाध्यायः ॥



Correction: