वाचस्पत्यम्
मार्द्दङ्गिक || त्रि० मृदङ्गः तद्वादनं शिल्पमस्य टक् । मृदङ्गवादके अमरः ।
शब्दकल्पद्रुमः
मार्द्दङ्गिकः || त्रि (मृदङ्गवादनं शिल्पमस्य । मृदङ्ग + “शिल्पम् ।” ४ । ४ । ५५ । इति ठक् ।)
मृदङ्गवादकः । तत्पर्य्यायः । मौर- जिकः २ । इत्यमरः । २ । १० । १३ ॥ सार्ङ्किकः ३ और्द्धिकः ४ । इति शब्दरत्नावली ॥ (यथा, रामायणे । २ । ९१ । ४९ । “बिल्वा मार्द्दङ्गिका आसंश्छम्याग्राहा विभी- तकाः । अश्वत्था नर्त्तकाश्चासन् भरद्बाजस्य तेजसा ॥”)