वाचस्पत्यम्
मार्द्दव || न० मृदोर्भावः अण् । १ मृदुत्वे २ परदुःखासहिष्णु- तायाम् ३ द्रवीभावे च “अभितप्तमेयोऽपि मार्द्दवं भजते कैव कथा शरीरिणाम्” रघुः । ४ सङ्कीर्णजातिभेदे पुंस्त्री० जटा० । स्त्रियां ङीष् ।
शब्दकल्पद्रुमः
मार्द्दवं || क्ली (मृदोर्भाव इति । मृदु + “पृथ्वादिभ्य इमणिज् वा ।” ५ । १ । १२२ । इत्यत्र । “वावचन- मणादेः समावेशार्थम् ।” इति काशिको- क्तेरण् ।)
परदुःखप्रदर्शनात् पीडाबुद्धिः । मृदुता । यथा, —
“मार्द्दवं कोमलस्यापि संस्पर्शासहतोच्यते । उत्तमं मध्यमं प्रोक्तं कनिष्ठञ्चेति तत्त्रिधा ॥” उत्तमं यथा, —
“अभिनवमालिकामियं साशय- नववंशिराधिका विशिष्ये । न कुसुमपटलं दरापि जग्लौ तदनुभवात्तनुरेव सव्रणासीत् ॥” मध्यमं यथा, —
“चित्रं धनिष्ठे तनुवाससोऽपि चीनस्य पीनस्तनि ! सङ्गमेन । लिप्तेन तल्लोहितचन्दनेन मूर्त्तिर्दिदूना सखि ! लोहितासीत् ॥ कनिष्ठं यथा, — रससुधाकरे आमोदमामोदन- मादधानं निलीननीलालकचञ्चरीकम् । क्षणेन पद्मामुखपद्ममासीत् त्विषा रवेः कोमलयापि ताम्रम् ॥” इत्युज्ज्वलनीलमणिः ॥ (अकाठिन्यम् । यथा, रघौ । ८ । ४३ । “विललाप सवाष्पगद्गदं सहजामप्यपहाय धीरताम् । अभितप्तमयोऽपि मार्द्दवं भजते कैव कथा शरीरिषु ॥”)
शब्दकल्पद्रुमः
मार्द्दवः || पुं, (मार्द्दवं मृदुत्वमस्यास्तीति । मार्द्दव + अर्श आद्यच् ।)
वर्णसङ्करजातिविशेषः । “माधुको मार्दवश्चञ्चुकारुषा हिण्डिकादयः ।” इति जटाधरः ॥