वाचस्पत्यम्
माल || पु० मल—संज्ञायां कर्त्तरि घञ् । “माला मिल्लाः किराताश्च सर्वेऽपि म्लेच्छजातयः” हेमच० उक्ते १ म्लेच्छ- भेदे २ विष्णौ पु० भरतः । ३ देशभेदे ४ क्षेत्रे मेदि० ५ कपटे ६ वने हेमच० ।
शब्दकल्पद्रुमः
मालं || क्ली (माति मानहेतुर्भवतीति । मा + “ऋज्रेन्द्राग्रवज्रेत्यादि ।” उणा० २ । २८ । इति रण् । पृषोदरादित्वाद्रस्य लत्वम् ।)
क्षेत्रम् । इति मेदिनी ॥ ले, ४५ । (यथा, मेघदूते । १६ । “सद्यः सीरोत्कषणसुरभि क्षेत्रमारुह्य मालं किञ्चित्पश्चाद् व्रज लघुगतिर्भूय एवोत्तरेण ॥”)
कपटम् । वनम् । इति हेमचन्द्रः ॥ (हरि- तालम् । यथा, —
“हरितालं तालमालं मालं शैलूषभूषणम् । पिञ्जकं रोमहरणं तालकं पातमित्यपि ॥” इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाद्य- धिकारे ।)
शब्दकल्पद्रुमः
मालः || पुं, (मातीति । मा + रन् । रस्य लत्वम् ।)
जातिविशेषः । इति मेदिनी ॥ ले, ४५ । स च म्लेच्छजातिः । यथा, —
“माला भिल्लाः किराताश्च सर्व्वेऽपि म्लेच्छजातयः ॥” (यथा, महाभारते । ६ । ९ । ३९ । “तत्रेमे कुरुपाञ्चालाः शाल्वा माद्रेयजाङ्गलाः । शूरसेनाः पुलिन्दाश्च योधा मालास्तथैव च ॥”)
जनः । इति च हेमचन्द्रः । ३ । ५९८ ॥ देश- विशेषः । स च मेदिनीपुरप्रदेशे मालभूमित्वेन ख्यातः । विष्णुः । यथा, — ‘मां लक्ष्मीं लातीति मालो विष्णुः तं अत- तीति मालती ।’ इति मालतीशब्दटीकायां भरतः ॥