वाचस्पत्यम्
मालती || स्त्री मां लक्ष्मीं शोभां वा लतति वेष्टते लत—अच् ६ त० ङीप् । १ जातीलतायां २ युवत्यां अमरः । ३ काक- माच्यां ४ नदीभेदे ५ विशल्यायां ज्योत्स्नायां ७ निशा- याञ्च हेमच० ।
शब्दकल्पद्रुमः
मालती || स्त्री (मलते शोभां धारयतीति । मल् + “भृदृशियजीत्यादि ।” उणा० ३ । ११० । इत्यत्र “बाहुलकात् मलतेरतच् । गौरादिनिपातना- दुपधाया दीर्घत्वम् ।” इत्युज्ज्वलदक्तोक्तेः अतच् उपधाया दीर्घत्वम् ङीष् च । मां लक्ष्मीं लातीति मालो विष्णुः तं अततीति । अच् । इत्यमरटीकायां भरतः ॥)
स्वनामख्यात- पुष्पलता । तत्पर्य्यायः । सुमना २ जातिः ३ । इत्यमरः ॥ सुमनाः ४ जाती ५ । इति भरतः ॥ (यथा, शिशुपालवधे । ११ । १७ । “ज्वलयति मदनाग्निं मालतीनां रजोभिः ।”)
अस्या गुणाः । कफपित्तमुखरोगव्रणक्रिमिकुष्ठ- नाशित्वम् । इति राजबल्लभः ॥ तस्या उत्- पत्तिर्यथा, — आद्याशक्तिरुवाच । ‘अहमेतत्त्रिधा भिन्ना तिष्ठामि त्रिविधैर्गुणैः । गौरी लक्ष्मीः स्वधा चेति रजःसत्त्वतमोगुणैः ॥ तत्र गत्वा तथा कार्य्यं विधास्यन्ते च ताः सुराः ॥ नारद उवाच । शृण्वतामिति तां वाचमन्तर्द्ध्वानभगान्महः । देवानां विस्मयोत्फुल्लनेत्राणाञ्च तदा नृप ! ॥ ततः सर्व्वेऽपि ते देवा गत्वा तद्वाक्यचोदिताः । गौरीं लक्ष्मीं स्वधाञ्चैव प्रणेमुर्भक्तितलराः ॥ तास्तथा तान् सुरान् दृष्ट्वा प्रणतान् भक्तवत्- सलाः । बीजानि प्रददुस्तेभ्यो वाक्यानि जगदुस्तथा ॥ देव्य ऊचुः । इमानि देवा बीजानि विष्णुर्यत्रावतिष्ठति । निर्व्वपस्व ततः कार्य्यं भवतां सिद्धिमेष्यति ॥ नारद उवाच । ततः प्रहृष्टाः सुरसिद्धसंघाः प्रगृह्य बीजानि विचिक्षिपुश्च । विन्दारिकाभूमितले स यत्र विष्णुः सदा तिष्ठति सौख्यवृत्तिः नारद उवाच । क्षिप्तेभ्यस्तत्र बीजेभ्यो वनस्पत्यस्त्रयोऽभवन् । धात्री च मालती चैव तुलसी च नृपोत्तम ! ॥ धात्र्युद्भवा स्मृता धात्री माभवा मालती स्मृता । गौरीभवा च तुलसी रजःसत्त्वतमोगुणाः ॥” इति पाद्मे उत्तरखण्डे १४९ । १५० अध्यायौ ॥ * ॥
युवती । काचमाली । विशल्या । ज्योत्स्ना । निशा । नदीविशेषः । इति हेमचन्द्रः । ४ । २१३ । (सुवर्च्चला मालतीत्यर्थः । तत्पर्य्यायो यथा, —
“चणको मालती क्षौमी रुद्रपत्नी सुवर्च्चला ॥” पुष्पार्थे पर्य्यायो यथा, —
“मालती सुमना जातिः ।” इत्युभे वैद्यकरत्न- मालायाम् ॥ तथाच । जातिर्जाती च सुमना मालती राजपुत्त्रिका । चेतिका हृद्यगन्धा च सा पीता स्वर्णजातिका ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)