शब्दकल्पद्रुमः
मालयः || पुं, (मा शोभा तस्याः लयः आस्पदम् ।)
चन्दनवृक्षः । इति त्रिकाण्डशेषः ॥ मलय- सम्बन्धिनि, त्रि ॥ (यथा, नलोदये । २ । ३७ । “तनुच्छटोत्तमालया तया भुवोत्तमालया । अहारि शीतमालयानिलाबधूतमालया ॥” क्ली, अभिसारस्थानभेदः । यथा, साहित्य- दर्पणे । ३ । अभिसारिकाप्रकरणे । “क्षेत्रं वाटी भग्नदेवालयो दूतीगृहं वनम् । मालयञ्च श्मशानञ्च नद्यादीनां तटी तथा ॥”)