संस्कृत-शब्दकोशः

मालादीपक मालारिष्टा

मालादूर्वा

वाचस्पत्यम्

मालादूर्वा ||‍ स्त्री मालाकारा दूर्वा । (गाठिदूर्वा) दूर्वाभेदे राजनि० ।


शब्दकल्पद्रुमः

मालादूर्व्वा || स्त्री (माला इव ग्रन्थियुक्ता दूर्वा ।)
दूर्व्वाविशेषः । गाठिया दूर्व्वा इति भाषा । तत्पर्य्यायः । वल्लिदूर्व्वा २ अलिदूर्व्वा ३ माला- ग्रन्थिः ४ ग्रन्थिला ५ ग्रन्थिदूर्व्वा ६ शूलग्रन्थिः ७ वेल्लनी ८ ग्रन्थिमूला ९ रोहत्पर्व्वा १० पर्व्व- वल्ली ११ शिवाख्या १२ । अस्या गुणाः । मुमधुरत्वम् । तिक्तत्वम् । शिशिरत्वम् । पित्त- दोषप्रशमनत्वम् । कफवान्तितृषापहत्वञ्च । इति राजनिर्घण्टः ॥



Correction: