शब्दकल्पद्रुमः
मालिन्यं || क्ली (मलिन + “वुञ् छण् कठजिलसेनिर- ढञ् ण्येति ।” ४ । २ । ८० । इति संकाशादित्वात् ण्यप्रत्ययः ।)
मलिनत्वम् । मलिनस्य भाव इत्यर्थे ष्ण्यप्रत्ययेन निष्पन्नम् ॥ (यथा, राजतरङ्गि- ण्याम् । १ । १७८ । “भोगयोगेन मालिन्यं नेतुं मध्यगतोऽपि सः । न शक्यते स्म पङ्केन प्रतिमेन्दुरिवामलः ॥”)