संस्कृत-शब्दकोशः

मालूक मालेय

मालूर

वाचस्पत्यम्

मालूर ||‍ पु० मां लक्ष्मीं परेषां लुनाति लू—रक् । १ विल्वे अमरः २ कपित्वे च राजनि० ।


शब्दकल्पद्रुमः

मालूरः || पुं, (मां परेषां वृक्षान्तराणां श्रियं प्रभावं लुनातीति । लूञ् + बाहुलकात् रः ।)
विल्ववृक्षः । इत्यमरः । २ । ४ । ३२ ॥ (यथा, नैषधे । १ । ९४ । “स वारनारीकुचसञ्चितोपमं ददर्श मालूरफलं पचेलिमम् ।”)
कपित्थवृक्षः । इति राजनिर्घण्टः ॥ (विस्त्व- वृक्षार्थे पर्य्यायो यथा, — विल्वो महाकपित्थाख्यः श्रीफलो गोहरीतकी । पूतिवातोऽथ माङ्गल्यो मालूरश्च महाफलम् ॥” इति वैद्यकरत्नमालायाम् ॥ “विल्वः शाण्डिल्यशैलूषौ मालूरश्रीफलावपि ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे च ॥)



Correction: