संस्कृत-शब्दकोशः

माष माषकलाय

माषक

शब्दकल्पद्रुमः

माषकः || पुं, (माषप्रकारः । माष + “स्थूला- दिभ्यः प्रकारवचने कन् ।” ५ । ४ । ३ । इति कन् ।)
मासकः । पञ्चरत्तिकपरिमाणम् । यथा । गुञ्जाः पञ्चाद्यमाषकः । इत्यमरः ॥ “दशार्द्धगुञ्जं प्रवदन्ति माषं माषाह्वयैः षोडशभिश्च कर्षम् ॥” इति लीलावती च ॥ “षड्भिस्तु रत्तिकाभिः स्यान्माषको हेम- धानकौ । माषो गुञ्जाभिरष्टाभिः सप्तभिर्वा भवेत् क्वचित् ॥” इति भावप्रकाशः ॥ (बीहिविशेषः । तदर्थे विषयो यथा, —
“द्वात्रिंशन्माषकैर्माषः ।” परिमाणार्थे यथा, —
“—सुश्रुतस्य तु माषकः । द्वादशभिर्धान्यमाषैश्चतुःषष्ट्या तु तैः पलम् ॥” इत्युभे वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ॥)



Correction: