शब्दकल्पद्रुमः
मांसपेशी || स्त्री (मांसस्य पेशी ।)
गर्भस्थावयव- विशेषः । यथा, —
“वुद्वुदः सप्तरात्रेण मांसपेशी भवेत्ततः । द्विसप्ताहात् भवेत् पेशी रक्तमांसचिता दृढा ॥ बीजस्यैवाङ्कुराः पेश्यः पञ्चविंशतिरात्रतः ॥” इति सुखबोधः ॥ * ॥
अथ मांसस्य पेशीराह । यथार्थमुष्मणा युक्तो वायुः श्रोतांसि दारयेत् । अनुप्रविश्य पिशितं पेशीर्व्विभजते तथा ॥” यथार्थं यथाप्रयोजनम् ॥ * ॥
मांसपेशीनां संख्यामाह । “मांसपेश्यः समाख्याता नृणां पञ्चशतानि च । तासां शतानि चत्वारि शाखासु कथितान्यथ ॥ कोष्ठे षडुत्तरा षष्टिः कथिता मुनिपुङ्गवैः । ग्रीवाया ऊर्द्ध्वगास्तास्तु चतुस्त्रिंशत् प्रकी- र्त्तिताः ॥” ताः शाखागताः प्राह । एकैकस्यां पादाङ्गुल्यां तिस्रस्तिस्रस्ताः पञ्चदश १५ पादाग्रे दश १० पादोपरिकूर्च्चसन्निविष्टा दश १० गुल्फतलयो- र्दश १० गुल्फजानुनोः अन्तरे विंशतिः २० जानुनि पञ्च ५ ऊरौ विंशतिः २० वंक्षणे दश १० एवमेकस्मिन् सक्थिनि शतम् १०० भवन्ति । एतेनेतरसक्थिबाहू च व्याख्यातौ ॥ अथ कोष्ठगताः प्राह । गुदे तिस्रः शेफ- स्येका १ सेवन्यामेका १ वृषणयोर्द्वे २ स्फिचोः पञ्च पञ्च ५ । ५ वस्तिमूर्द्धनि द्बे २ उदरे पञ्च ५ नाभौ एका १ पृष्ठोर्द्धसन्निविष्टा उभयतः पञ्च पञ्च दीर्घाः ५ । ५ पार्श्वयोः षट् ६ वक्षसि दश १० अक्षकांसौ प्रति समन्तात् सप्त ७ । अक्षकौ अंसुया इति लोके । अंसौ स्कन्धौ । हृदि द्वे २ यकृति द्वे २ प्लीह्नि द्वे २ उण्डुके द्वे २ ॥ * ॥
अथ ग्रीवोर्द्ध्वगा आह । ग्रीवायां चतस्रः ४ हन्वोरष्टौ ८ कण्ठमणौ घण्टिकाया- मिति यावत् एका १ गले एका १ तालुनि द्बे २ जिह्वायामेका १ ओष्ठयोर्द्वे २ नासायां द्वे ललाटे चतस्रः ४ शिरस्येका १ एवं मांस- पेश्यः पञ्चशतानि भवन्ति ॥ * ॥
“स्त्रीणामपि भवन्त्येताः किन्तु विंशतिरुत्तराः । गर्भाशये गर्भमार्गे योनौ च स्तनयोरपि ॥” एताः पञ्चशतानि मांसपेश्यः । अधिका विंशतिर्यथा । गर्भाशये तिस्रः ३ गर्भच्छिद्र- संस्थिताः । शुक्रार्त्तवप्रवेशिन्यां तिस्रः ३ योना- वभ्यन्तरतो मुखाश्रिते प्रसृते द्बे २ योनावेव बहिर्निर्गतस्रोतःपार्श्वद्वयस्थिते वर्त्तले योनि- कर्णिक इति यावत् द्वे २ स्तनयोः पञ्च पञ्च ५ । ५ । यौवने तासां वृद्धिर्भवति । “पुंसां पेश्यः पुरस्तात् याः प्रोक्ता मेहन- सुष्कजाः । स्त्रीणामावृत्य तिष्ठन्ति फलमन्तर्गतं हि ताः ॥” अस्यायमर्थः । पुंसां मेहनसुष्कयोश्च याश्चिस्रो मांसपेश्यः पूर्ब्बमुक्तास्ताः स्त्रीणां मेहनमुष्का- भावात् फलं गर्भाशयं आवृत्य तिष्ठन्ति । गय- दासस्त्वास । स्त्रीणां मांसपेश्यस्त्रिभिर्हीनानि पञ्चशतानि । तथा च भोजः । “पञ्चपेशीशतान्येव स्त्रीवर्ज्जं विद्धि भूमिप ! । अतश्च तिस्रो हीयन्ते स्त्रीणां शेफसि मुष्कयोः ॥ अथ मांसपेशीनां कर्म्माण्याह । “शिरास्नाय्वस्थिपर्व्वाणि सन्धयस्तु शरीरिणाम् । पेशीभिः सहितान्येव बलवन्ति भवन्ति हि ॥” इति भावप्रकाशः ॥ (यथा, महाभारते । १ । ११५ । १२ । “ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता ॥”)