संस्कृत-शब्दकोशः

मासर मांसल

मांसरोहिणी

वाचस्पत्यम्

मांसरोहिणी ||‍ स्त्री मासं रोपयति रुह—णिच् णिनि वा न पुक् । सुगन्धिद्रव्यभेदे (चामकषा) । राजनि० ।


शब्दकल्पद्रुमः

मांसरोहिणी || स्त्री (मांसं रोपयतीति । रुह + णिच् + णिनिः । ङीप् । न पुक् ।)
सुगन्धिद्रव्यभेदः । तत्पर्य्यायः । अग्निरुहा २ वृत्ता ३ चर्म्मकषा ४ वसा ५ विकषा ६ मांसरोही ७ । अस्या गुणाः । वृष्यत्वम् । सारकत्वम् । दोषत्रयनाशित्वञ्च । इति राजनिर्घण्टः ॥ (तथाचास्याः पर्य्यायो गुणाश्च । “मांसरोहिण्यतिरुहा वृत्ता चर्म्मकरी कृशा । प्रहारवल्ली विकशा वीरवत्यपि कथ्यते ॥ स्यान्मांसरोहिणी वृष्या सरा दोषत्रयापहा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: