वाचस्पत्यम्
मांसल || त्रि० मांस + बलवत्यर्थे लच । १ बलवति असर । २ स्थूले ३ पुष्टे च ।
शब्दकल्पद्रुमः
मांसलं || क्ली (मांसं तद्बत् पुष्टिकरो गुणोऽस्त्य- स्यास्मिन् वा । मांस + “सिध्मादिभ्यश्च ।” ५ । २ । ९७ । इति लच् ।)
काव्यस्य गौडीरीत्य- न्तर्गतस्य ओजोगुणस्याङ्गविशेषः । यथा, —
“ओजः समासभूयस्त्वं मांसलं पदडम्बरम् ॥” इति काव्यचन्द्रिका ॥
शब्दकल्पद्रुमः
मांसलः || त्रि (अतिशयमांसमस्त्यस्येति । मांस + “सिध्मादिभ्यश्च ।” ५ । २ । ५७ । इति लच् ।)
बलवान् । इत्यमरः । ३ । ६ । ४४ । स्थूलः । यथा, गारुडे ६६ अध्याये । “निस्वाश्च बहुरेखाः स्युर्निर्द्रव्याश्चिवुकैः कृशैः । मांसलैश्च धनोपेतैरवक्रैरधरैर्नृपाः ॥” (मांसयुक्तः । यथा, बृहत्संहितायाम् । ६८ । २८ । “हृदयं समुन्नतं पृथु न वेपनं मांसलञ्च नृपतीनाम् ॥” अतिबहुलः । यथा, नैषधे । ९ । २७ । “ह्रदस्य हंसावलिमांसलश्रियो बलाकयेव प्रबला विडम्बना ॥”)